|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.23. अध्यायः 023
Mahabharata - Sabha Parva - Chapter Topics
कृष्णजरासन्धयोर्द्वेषकारणकथनम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
जनमेजय उवाच।
किमर्थं वैरिणावास्तामुभौ तौ कृष्णमागधौ।
कथं च निर्जितः सङ्ख्ये जरासन्धेन माधवः॥ 2-23-1(12241)
कश्च कंसो मागधस्य यस्य हेतोः स वैरवान्।
एतदाचक्ष्व मे सर्वं वैशम्पायन तत्वतः॥ 2-23-2(12242)
वैशम्पायन उवाच॥ 2-23-3x(1425)
यादवानामन्ववाये वसुदेवो महामतिः।
उदपद्यत वार्ष्णेयो ह्युग्रसेनस्य मन्त्रभृत्॥ 2-23-3(12243)
उग्रसेनस्य कंसस्तु बभूव बलवान्सुतः।
ज्येष्ठो बहूनां कौरव्य सर्वशस्त्रविशारदः॥ 2-23-4(12244)
जरासन्धस्य दुहिता तस्य भार्याऽतिविश्रुता।
राज्यशुक्लेन दत्ता सा जरासन्धेन धीमता॥ 2-23-5(12245)
तदर्थमुग्रसेनस्य मधुरायां सुतस्तदा।
अभिषिक्तस्तदाऽमात्यैः स वै तीव्रपराक्रमः॥ 2-23-6(12246)
ऐश्वर्यबलमत्तस्तु स तदा बलमोहितः।
निगृह्य पितरं भुङ्क्ते तद्राज्यं मन्त्रिभिः सह॥ 2-23-7(12247)
वसुदेवस्य तत्कृत्यं न शृणोति स मन्दधीः।
त तेन सह तद्राज्यं धर्मतः पर्यपालयत्॥ 2-23-8(12248)
प्रीतिमान्स तु दैत्येन्द्रो वसुदेवस्य देवकीम्।
उवाह भार्या स तदा दुहिता देवकस्य या॥ 2-23-9(12249)
तस्यामुद्वाह्यमानायां रथेन जनमेजय।
उपारुरोह वार्ष्णेयं कंसो भूमिपतिस्तदा॥ 2-23-10(12250)
ततोऽन्तरिक्षे वागासीद्देवदूतस्य कस्यचित्।
वसुदेवश्च शुश्राव तां वाचं पार्थिवश्च सः॥ 2-23-11(12251)
यामेतां वहमानोऽद्य कंसोद्वहसि देवकीम्।
अस्या यश्चाष्टमो गर्भः स ते मृत्युर्भविष्यति॥ 2-23-12(12252)
सोऽवतीर्य ततो राजा खड्गमुद्धृत्य निर्मलम्।
इयेष तस्या मूर्धानं छेत्तुं परमदुर्मतिः॥ 2-23-13(12253)
सान्त्वयन्स तदा कंसं हसन्कोधवशानुगम्।
राजन्ननुनयामास वसुदेवो महामतिः॥ 2-23-14(12254)
अहिंस्यां प्रमदामाहुः सर्वधर्मेषु पार्थिव।
अकस्मादबलां नारीं हन्तासीमामनागसीम्॥ 2-23-15(12255)
यच्च तेऽत्र भयं राजञ्शक्यते बाधितुं त्वया।
इयं शक्या पालयितुं समयं चैव रक्षितुम्॥ 2-23-16(12256)
अस्यास्त्वमष्टमं गर्भं जातमात्रं महीपते।
विध्वंसय तदा प्राप्तमेवं परिहृतं भवेत्॥ 2-23-17(12257)
एवं स राजा कथितो वसुदेवेन भारत।
तस्य तद्वचनं चके शूरसेनपतिस्तदा॥ 2-23-18(12258)
ततस्तस्यां सम्बभूवुः कुमाराः सूर्यवर्चसः।
जाताञ्चातांस्तु तान्सर्वाञ्जघान मधुरेश्वरः॥ 2-23-19(12259)
अथ तस्यां समभवद्बलदेवस्तु सत्तमः।
याम्यता मायया तं तु यमो राजा विशाम्पते॥ 2-23-20(12260)
देवक्या गर्भमतुलं रोहिण्या जठरेऽक्षिपत्।
आकृष्य कर्षणात्सम्यक्सङ्कर्षणं इति स्मृतः॥ 2-23-21(12261)
बलश्रेष्ठतया तस्य बलदेव इति स्मृतः।
पुनस्तस्यां समभवदष्टमो मधुमूदनः॥ 2-23-22(12262)
तस्य गर्भस्य रक्षां तु स चक्रेऽभ्यधिकं नृपः।
ततः काले रक्षणार्थं वसुदेवस्य तत्वतः॥ 2-23-23(12263)
उग्रः प्रयुक्तः कंसेन सचिवः क्रूरकर्मकृत्॥ 2-23-24(12264)
जातमात्रं वासुदेवमथाकृष्य पिता ततः।
उपजह्रे परिक्रीतां सुतां गोपस्य कस्यचित्॥ 2-23-25(12265)
अमृष्यमाणस्तं शब्दं देवदूतस्य पार्थिवः।
वासुदेवं महात्मानमर्पयामास गोकुले॥ 2-23-26(12266)
वासुदेवोपि गोपेषु ववृधेऽब्जमिवाम्भसि।
अज्ञायमानः कंसेन गूढोऽग्निरिव दारुषु॥ 2-23-27(12267)
विप्रचके तदा सर्वान्बल्लवान्मधुरेश्वरः।
वर्धमानो महाबाहुस्तेजोबलसमन्वितः॥ 2-23-28(12268)
ततस्ते क्लिश्यमानास्तु पुण्डरीकाक्षमच्युतम्।
भयेन कामादपरे गणशः पर्यवारयन्॥ 2-23-29(12269)
स तु लब्ध्वा बलं राजन्नुग्रसेनस्य संमतः।
वसुदेवात्मजः सर्वैर्भ्रातृभिः सहितं पुनः॥ 2-23-30(12270)
निर्जित्य युधि भोजेन्द्रं हत्वा कंसं महाबलः।
अभ्यषिञ्चत्ततो राज्य उग्रसेनं विशाम्पते॥ 2-23-31(12271)
ततः श्रुत्वा जरासन्धो माधवेन हतं युधि।
शूरसेनाधिपं चक्रे कंसपुत्रं तदा नृप॥ 2-23-32(12272)
ससैन्यं महदुत्थाप्य वासुदेवं तदा नृप।
अभ्यषिञ्चत्सुतं तत्र सुताया जनमेजय॥ 2-23-33(12273)
उग्रसेनं च वृष्णींश्च महाबलसमन्वितः।
स तत्र विप्रकुरुते जरासन्धः प्रतापवान्॥ 2-23-34(12274)
एतद्वैरं कौरवेय जरासन्धस्य माधवे।
आशासितार्थे राजेन्द्र संरुरोध विनिर्जितान्॥ 2-23-35(12275)
पार्थिवैस्तैर्नृपतिभिर्यक्ष्यमाणः समृद्धिमान्।
देवश्रेष्ठं महादेवं कृत्तिवासं त्रियम्बकम्॥ 2-23-36(12276)
एतत्सर्वं यथावृत्तं कथितं भरतर्षभ।
यथा तु स हतो राजा भीमसेनेन तच्छृणु॥ ॥ 2-23-37(12277)
इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि त्रयोर्विंशोऽध्यायः॥ 23॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|